|| देवी प्रातःस्तवनम् ||
प्रातः स्मरामि शरदिन्दुकरोज्ज्वलाभां,
सद्रत्नवन्मकरकुण्डलहारभूषाम् |
दिव्यायुधोर्जितसुनीलसहस्रहस्तां,
रक्तोत्पलाभचरणां भवतीं परेशाम् ॥ १ ॥
प्रातर्नमामि महिषासुरचण्डमुण्ड-
शुम्भासुरप्रमुखदैत्यविनाशदक्षाम्,
ब्रह्मेन्द्ररुद्रमुनिमोहनशीललीलां,
चण्डीं समस्तसुरमूर्तिमनेकरूपाम् ॥ २ ॥
प्रातर्भजामि भजतामभिलाषदात्रीं,
धात्रीं समस्तजगतां दुरितापहन्त्रीम्।
संसारबन्धनविमोचनहेतुभूतां,
मायां परां समधिगम्य परस्य विष्णोः ॥ ३ ॥
Add comment
Comments