श्री गणेश अष्टक स्तोत्रम्

 श्री गणनायकाष्टकम् 

एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् ।
लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥ १ ॥

 

मौञ्जीकृष्णाजिनधरं नागयज्ञोपवीतिनम् ।
बालेन्दुसुकलामौलिं वन्देऽहं गणनायकम् ॥ २ ॥

 

अम्बिकाहृदयानन्दं मातृभिःपरिवेष्टितम् ।
भक्तप्रियं मदोन्मत्तं वन्देऽहं गणनायकम् ॥ ३ ॥

 

चित्ररत्नविचित्राङ्गं चित्रमालाविभूषितम् ।
चित्ररूपधरं देवं वन्देऽहं गणनायकम् ॥ ४ ॥

 

गजवक्त्रं सुरश्रेष्ठं कर्णचामरभूषितम् ।
पाशाङ्कुशधरं देवं वन्देऽहं गणनायकम् ॥ ५ ॥

 

मूषकोत्तममारुह्य देवासुरमहाहवे ।
योद्धुकामं महावीर्यं वन्देऽहं गणनायकम् ॥ ६ ॥

 

यक्षकिन्नरगन्धर्वसिद्धविद्याधरैः सदा ।
स्तूयमानं महाबाहुं वन्देऽहं गणनायकम् ॥ ७ ॥

 

सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितम् ।
सर्वसिद्धिप्रदातारं वन्देऽहं गणनायकम् ॥ ८ ॥

 

गणाष्टकमिदं पुण्यं यः पठेत्सततं नरः ।
सिध्यन्ति सर्वकार्याणि विद्यावान् धनवान् भवेत् ॥ ९ ॥

 

इति श्री गणानायक अष्टक स्तोत्रम् सम्पूर्णम् ।

गणेश अष्टक स्तोत्रम् Pdf

Add comment

Comments

There are no comments yet.